|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.4. अध्यायः 004
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
मतङ्गेन ब्राह्मण्यप्राप्तये वर्षशतं तपश्चरणम्॥ 1 ॥ तम्प्रतीन्द्रेण प्राणिनां कथंचिन्मानुषत्वलाभेपि नानानीचयोनिषु परिभ्रमणपूर्वकं क्रमेण त्रैवर्णिकत्वमात्रप्राप्तिकथनेन ब्राह्मण्यस्य दुर्लभत्वोक्तिः॥ 2 ॥

Mahabharata - Anushaasana Parva - Chapter Text
भीष्म उवाच।
एवमुक्तो मतङ्गस्तु संशितात्मा यतव्रतः।
अतिष्ठदेकपादेन वर्षाणां शतमच्युतः॥ 13-4-1(81397)
तमुवाच ततः शक्रः पुनरेव महायशाः।
ब्राह्मण्यं दुर्लभं तात प्रार्थयानो न लप्स्यसे॥ 13-4-2(81398)
मतङ्ग परमं स्थानं प्रार्थयन्विनशिष्यसि।
मा कृथाः साहसं पुत्र नैष धर्मपथस्तव॥ 13-4-3(81399)
`विमार्गतो मार्गमाणः सर्वथा नभविष्यसि'।
न हि शक्यं त्वया प्राप्तुं ब्राह्मण्यमिह दुर्मते।
अप्राप्यं प्रार्थयानो हि नचिराद्विनशिष्यसि॥ 13-4-4(81400)
मतङ्ग परमं स्थानं वार्यमाणोऽसकृन्मया।
चिकीर्षस्येव तपसा सर्वथा नभविष्यसि॥ 13-4-5(81401)
तिर्यग्योनिगतः सर्वो मानुष्यं यदि गच्छति।
स जायते पुल्कसो वा चण्डालो वाऽप्यसंशयः॥ 13-4-6(81402)
पुल्कसः पापयोनिर्वा यः कश्चिदिह लक्ष्यते।
स तस्यामेव सुचिरं मतङ्ग परिवर्तते॥ 13-4-7(81403)
ततो दशशते काले लभते शूद्रतामपि।
शूद्रयोनावपि ततो बहुशः परिवर्तते॥ 13-4-8(81404)
ततस्त्रिंशद्गणे काले लभते वैश्यतामपि।
वैश्यतायां चिरं कालं तत्रैव परिवर्तते।
ततः षष्टिगुणे काले राजन्यो नाम जायते॥ 13-4-9(81405)
ततः षष्टिगुणे काले लभते ब्रह्मबन्धुताम्।
ब्रह्मबन्धुश्चिरं कालं ततस्तु परिवर्तते॥ 13-4-10(81406)
ततस्तु द्विशते काले लभते काण्डपृष्ठताम्।
काण्डपृष्ठश्चिरं कालं तत्रैव परिवर्तते॥ 13-4-11(81407)
ततस्तु त्रिशते काले लभते जपतामपि।
तं च प्राप्य चिरं कालं तत्रैव परिवर्तते॥ 13-4-12(81408)
ततश्चतुःशते काले श्रोत्रियो नाम जायते।
श्रोत्रियत्वे चिरं कालं तत्रैव परिवर्तते॥ 13-4-13(81409)
तदेवं शोकहर्षौ तु कामद्वेषौ च पुत्रक।
अतिमानातिवादौ च प्रविशेते द्विजाधमम्॥ 13-4-14(81410)
तांश्चेज्जयति शत्रून्स तदा प्राप्नोति सद्गतिम्।
अथ ते वै जयन्त्येनं तालं पक्वमिवापतेत्॥ 13-4-15(81411)
मतङ्ग सम्प्रधार्यैवं यदहं त्वामचूचुदम्।
वृणीष्व काममन्यं त्वं ब्राह्मण्यं हि सुदुर्लभम्॥ ॥ 13-4-16(81412)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुर्थोऽध्यायः॥ 4 ॥।
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-4-11 काण्डपृष्ठतां शस्त्रजीवित्वम्॥ 7-4-12 जपतां गायत्रीमात्रसेविनां कुले जन्मेति शेषः॥ 7-4-13 श्रोत्रियः अधीतवेदः॥ 7-4-14 तत् तदा श्रोत्रियत्वलाभेऽपि॥ 7-4-15 ते शोकादयः। एनं श्रोत्रियम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|